बिल्वपत्र चढाने के 108 मन्त्र -
त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रियायुधम् ।
त्रिजन्म पाप संहारं एकबिल्वं शिवार्पणम् ॥१॥
अक्षमाला धरं
रुद्रं पार्वती
प्रियवल्लभम् ।
चन्द्रशेखर मीशानं एकबिल्वं
शिवार्पणम् ॥५॥
त्रिलोचनं दश भुजं
दुर्गा देहार्ध धारिणम्
।
विभूत्यभ्यर्चितं देवं
एकबिल्वं शिवार्पणम्
॥६॥
त्रिशूलधारिणं देवं नागाभरण सुन्दरम् ।
चन्द्रशेखरमीशानं एकबिल्वं शिवार्पणम् ॥७॥
गङ्गाधराम्बिकानाथं फणि कुण्डल मण्डितम् ।
काल कालं गिरीशं च एकबिल्वं शिवार्पणम् ॥८॥
सच्चिदानन्द रूपं
च परानन्दमयं शिवम्
।
वागीश्वरं चिदाकाशं
एकबिल्वं शिवार्पणम्
॥१०॥
नीलकण्ठं जगद्वन्द्यं दीन नाथं
महेश्वरम् ।
महा पाप संहारं
एकबिल्वं शिवार्पणम्
॥१८॥
चूडामणी कृतविभुं वलयीकृत वासुकिम् ।
कैलासवासिनं भीमं एकबिल्वं शिवार्पणम् ॥१९॥
सामप्रियं सर्वमयं भस्मोद्धूलित विग्रहम् ।
मृत्युञ्जयं लोकनाथं एकबिल्वं शिवार्पणम् ॥२५॥
दारिद्र्य दुःख हरणं
रवि चन्द्रानलेक्षणम् ।
मृगपाणिं चन्द्रमौळिं एकबिल्वं शिवार्पणम्
॥२६॥
सम्पूर्ण कामदं
सौख्यं भक्तेष्ट फल कारणम्
।
सौभाग्यदं हितकरं
एकबिल्वं शिवार्पणम्
॥४१॥
सुख रूपं रूप नाशं सर्वधर्म फलप्रदम् ।
अतीन्द्रियं महामायं एकबिल्वं शिवार्पणम् ॥४६॥
धूर्जटिं पिङ्गलजटं जटा मण्डल मण्डितम् ।
कर्पूर गौरं गौरीशं एकबिल्वं शिवार्पणम् ॥ II६०॥
जटाधरं पावकाक्षं
वृक्षेशं भूमि नायकम्
।
कामदं सर्वदागम्यं एकबिल्वं
शिवार्पणम् ॥
६६
शरणागत दीनार्त परित्राण परायणम्
।
गम्भीरं च वषट्कारं
एकबिल्वं शिवार्पणम्
॥७०॥
हिरण्यगर्भं हेमाङ्गं एकबिल्वं शिवार्पणम् ॥७३॥
निधनेशं धनाधीशं अपमृत्युविनाशनम् ।
लिङ्गमूर्तिमलिङ्गात्मं एकबिल्वं शिवार्पणम्॥८१॥
माघ कृष्ण चतुर्दश्यां पूजार्थं च जगद्गुरोः ।
दुर्लभं सर्वदेवानां एकबिल्वं शिवार्पणम् ॥९०॥
टिप्पणियाँ
एक टिप्पणी भेजें